॥Verse 1भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-मुद्योतकं दलित-पाप-तमो-वितानम् ।सम्यक्-प्रणम्य जिन पद-पाद-युगं युगादा-वालम्बनं भव-जले पततां जनानाम् ॥1॥
॥Verse 2य: संस्तुत: सकल-वाङ्मय-तत्त्व-बोधा-दुद्भूत-बुद्धि-पटुभि: सुर-लोक-नाथै: ।स्तोत्रैर्जगत्-त्रितय-चित्त-हरैरुदारै:,स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥2॥
॥Verse 3बुद्ध्या विनापि विबुधार्चित-पाद-पीठ!स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम् ।बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-मन्य: क इच्छति जन: सहसा ग्रहीतुम् ॥3॥
॥Verse 4वक्तुं गुणान्गुण-समुद्र ! शशांक-कान्तान्,कस्ते क्षम: सुर-गुरु-प्रतिमोऽपि बुद्ध्या ।कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं ,को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥4॥
॥Verse 5सोऽहं तथापि तव भक्ति-वशान्मुनीश!कर्तुं स्तवं विगत-शक्ति-रपि प्रवृत्त: ।प्रीत्यात्म-वीर्य-मविचार्य मृगी मृगेन्द्रम्नाभ्येति किं निज-शिशो: परिपालनार्थम् ॥5॥
॥Verse 6अल्प-श्रुतं श्रुतवतां परिहास-धाम,त्वद्-भक्तिरेव मुखरी-कुरुते बलान्माम् ।यत्कोकिल: किल मधौ मधुरं विरौति,तच्चाम्र-चारु-कलिका-निकरैक-हेतु: ॥6॥
॥Verse 7त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं,पापं क्षणात्क्षयमुपैति शरीरभाजाम् ।आक्रान्त-लोक-मलि-नील-मशेष-माशु,सूर्यांशु-भिन्न-मिव शार्वर-मन्धकारम् ॥7॥
॥Verse 8मत्वेति नाथ! तव संस्तवनं मयेद,-मारभ्यते तनु-धियापि तव प्रभावात् ।चेतो हरिष्यति सतां नलिनी-दलेषु,मुक्ता-फल-द्युति-मुपैति ननूद-बिन्दु: ॥8॥
॥Verse 9आस्तां तव स्तवन-मस्त-समस्त-दोषं,त्वत्संकथाऽपि जगतां दुरितानि हन्ति ।दूरे सहस्रकिरण: कुरुते प्रभैव,पद्माकरेषु जलजानि विकासभांजि ॥9॥
॥Verse 10नात्यद्-भुतं भुवन-भूषण ! भूत-नाथ!भूतैर्गुणैर्भुवि भवन्त-मभिष्टुवन्त: ।तुल्या भवन्ति भवतो ननु तेन किं वाभूत्याश्रितं य इह नात्मसमं करोति ॥10॥
॥Verse 11दृष्ट्वा भवन्त मनिमेष-विलोकनीयं,नान्यत्र-तोष-मुपयाति जनस्य चक्षु: ।पीत्वा पय: शशिकर-द्युति-दुग्ध-सिन्धो:,क्षारं जलं जलनिधेरसितुं क इच्छेत्? ॥11॥
॥Verse 12यै: शान्त-राग-रुचिभि: परमाणुभिस्-त्वं,निर्मापितस्-त्रि-भुवनैक-ललाम-भूत !तावन्त एव खलु तेऽप्यणव: पृथिव्यां,यत्ते समान-मपरं न हि रूप-मस्ति ॥12॥
॥Verse 13वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि,नि:शेष-निर्जित-जगत्त्रितयोपमानम् ।बिम्बं कलंक-मलिनं क्व निशाकरस्य,यद्वासरे भवति पाण्डुपलाश-कल्पम् ॥13॥
॥Verse 14सम्पूर्ण-मण्डल-शशांक-कला-कलाप-शुभ्रा गुणास्-त्रि-भुवनं तव लंघयन्ति ।ये संश्रितास्-त्रि-जगदीश्वरनाथ-मेकं,कस्तान् निवारयति संचरतो यथेष्टम् ॥14॥
॥Verse 15चित्रं-किमत्र यदि ते त्रिदशांग-नाभिर्-नीतं मनागपि मनो न विकार-मार्गम् ।कल्पान्त-काल-मरुता चलिताचलेन,किं मन्दराद्रिशिखरं चलितं कदाचित् ॥15॥
॥Verse 16निर्धूम-वर्ति-रपवर्जित-तैल-पूर:,कृत्स्नं जगत्त्रय-मिदं प्रकटीकरोषि ।गम्यो न जातु मरुतां चलिताचलानां,दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाश: ॥16॥
॥Verse 17नास्तं कदाचिदुपयासि न राहुगम्य:,स्पष्टीकरोषि सहसा युगपज्-जगन्ति ।नाम्भोधरोदर-निरुद्ध-महा-प्रभाव:,सूर्यातिशायि-महिमासि मुनीन्द्र! लोके ॥17॥
॥Verse 18नित्योदयं दलित-मोह-महान्धकारं,गम्यं न राहु-वदनस्य न वारिदानाम् ।विभ्राजते तव मुखाब्ज-मनल्पकान्ति,विद्योतयज्-जगदपूर्व-शशांक-बिम्बम् ॥18॥
॥Verse 19किं शर्वरीषु शशिनाह्नि विवस्वता वा,युष्मन्मुखेन्दु-दलितेषु तम:सु नाथ!निष्पन्न-शालि-वन-शालिनी जीव-लोके,कार्यं कियज्जल-धरै-र्जल-भार-नमै्र: ॥19॥
॥Verse 20ज्ञानं यथा त्वयि विभाति कृतावकाशं,नैवं तथा हरि-हरादिषु नायकेषु ।तेजो महा मणिषु याति यथा महत्त्वं,नैवं तु काच-शकले किरणाकुलेऽपि ॥20॥
॥Verse 21मन्ये वरं हरि-हरादय एव दृष्टा,दृष्टेषु येषु हृदयं त्वयि तोषमेति ।किं वीक्षितेन भवता भुवि येन नान्य:,कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥21॥
॥Verse 22स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्,नान्या सुतं त्वदुपमं जननी प्रसूता ।सर्वा दिशो दधति भानि सहस्र-रश्मिं,प्राच्येव दिग्जनयति स्फुरदंशु-जालम् ॥22॥
॥Verse 23त्वामामनन्ति मुनय: परमं पुमांस-मादित्य-वर्ण-ममलं तमस: पुरस्तात् ।त्वामेव सम्य-गुपलभ्य जयन्ति मृत्युं,नान्य: शिव: शिवपदस्य मुनीन्द्र! पन्था: ॥23॥
॥Verse 24त्वा-मव्ययं विभु-मचिन्त्य-मसंख्य-माद्यं,ब्रह्माणमीश्वर-मनन्त-मनंग-केतुम् ।योगीश्वरं विदित-योग-मनेक-मेकं,ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्त: ॥24॥
॥Verse 25बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्,त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात् ।धातासि धीर! शिव-मार्ग विधेर्विधानाद्,व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥25॥
॥Verse 26तुभ्यं नमस्-त्रिभुवनार्ति-हराय नाथ!तुभ्यं नम: क्षिति-तलामल-भूषणाय ।तुभ्यं नमस्-त्रिजगत: परमेश्वराय,तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥26॥
॥Verse 27को विस्मयोऽत्र यदि नाम गुणै-रशेषैस्-त्वं संश्रितो निरवकाशतया मुनीश !दोषै-रुपात्त-विविधाश्रय-जात-गर्वै:,स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥27॥
॥Verse 28उच्चै-रशोक-तरु-संश्रितमुन्मयूख-माभाति रूपममलं भवतो नितान्तम् ।स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानं,बिम्बं रवेरिव पयोधर-पाश्र्ववर्ति ॥28॥
॥Verse 29सिंहासने मणि-मयूख-शिखा-विचित्रे,विभ्राजते तव वपु: कनकावदातम् ।बिम्बं वियद्-विलस-दंशुलता-वितानंतुंगोदयाद्रि-शिरसीव सहस्र-रश्मे: ॥29॥
॥Verse 30कुन्दावदात-चल-चामर-चारु-शोभं,विभ्राजते तव वपु: कलधौत-कान्तम् ।उद्यच्छशांक-शुचिनिर्झर-वारि-धार-मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥30॥
॥Verse 31छत्रत्रयं-तव-विभाति शशांककान्त,मुच्चैः स्थितं स्थगित भानुकर-प्रतापम् ।मुक्ताफल-प्रकरजाल-विवृद्धशोभं,प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥31॥
॥Verse 32गम्भीर-तार-रव-पूरित-दिग्विभागस्-त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्ष: ।सद्धर्म-राज-जय-घोषण-घोषक: सन्,खे दुन्दुभि-ध्वनति ते यशस: प्रवादी ॥32॥
॥Verse 33मन्दार-सुन्दर-नमेरु-सुपारिजात-सन्तानकादि-कुसुमोत्कर-वृष्टि-रुद्घा ।गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता,दिव्या दिव: पतति ते वचसां ततिर्वा ॥33॥
॥Verse 34शुम्भत्-प्रभा-वलय-भूरि-विभा-विभोस्ते,लोक-त्रये-द्युतिमतां द्युति-माक्षिपन्ती ।प्रोद्यद्-दिवाकर-निरन्तर-भूरि-संख्या,दीप्त्या जयत्यपि निशामपि सोमसौम्याम् ॥34॥
॥Verse 35स्वर्गापवर्ग-गम-मार्ग-विमार्गणेष्ट:,सद्धर्म-तत्त्व-कथनैक-पटुस्-त्रिलोक्या: ।दिव्य-ध्वनि-र्भवति ते विशदार्थ-सर्व-भाषास्वभाव-परिणाम-गुणै: प्रयोज्य: ॥35॥
॥Verse 36उन्निद्र-हेम-नव-पंकज-पुंज-कान्ती,पर्युल्-लसन्-नख-मयूख-शिखाभिरामौ।पादौ पदानि तव यत्र जिनेन्द्र ! धत्त:,पद्मानि तत्र विबुधा: परिकल्पयन्ति ॥36॥
॥Verse 37इत्थं यथा तव विभूति-रभूज्-जिनेन्द्र्र !धर्मोपदेशन-विधौ न तथा परस्य।यादृक्-प्रभा दिनकृत: प्रहतान्धकारा,तादृक्-कुतो ग्रहगणस्य विकासिनोऽपि ॥37॥
॥Verse 38श्च्यो-तन्-मदाविल-विलोल-कपोल-मूल,मत्त-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम्।ऐरावताभमिभ-मुद्धत-मापतन्तंदृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥38॥
॥Verse 39भिन्नेभ-कुम्भ-गल-दुज्ज्वल-शोणिताक्त,मुक्ता-फल-प्रकरभूषित-भूमि-भाग:।बद्ध-क्रम: क्रम-गतं हरिणाधिपोऽपि,नाक्रामति क्रम-युगाचल-संश्रितं ते ॥39॥
॥Verse 40कल्पान्त-काल-पवनोद्धत-वह्नि-कल्पं,दावानलं ज्वलित-मुज्ज्वल-मुत्स्फुलिंगम्।विश्वं जिघत्सुमिव सम्मुख-मापतन्तं,त्वन्नाम-कीर्तन-जलं शमयत्यशेषम् ॥40॥
॥Verse 41रक्तेक्षणं समद-कोकिल-कण्ठ-नीलम्,क्रोधोद्धतं फणिन-मुत्फण-मापतन्तम्।आक्रामति क्रम-युगेण निरस्त-शंकस्-त्वन्नाम-नागदमनी हृदि यस्य पुंस: ॥41॥
॥Verse 42वल्गत्-तुरंग-गज-गर्जित-भीमनाद-माजौ बलं बलवता-मपि-भूपतीनाम्।उद्यद्-दिवाकर-मयूख-शिखापविद्धंत्वत्कीर्तनात्तम इवाशु भिदामुपैति: ॥42॥
॥Verse 43कुन्ताग्र-भिन्न-गज-शोणित-वारिवाह,वेगावतार-तरणातुर-योध-भीमे।युद्धे जयं विजित-दुर्जय-जेय-पक्षास्-त्वत्पाद-पंकज-वनाश्रयिणो लभन्ते: ॥43॥
॥Verse 44अम्भोनिधौ क्षुभित-भीषण-नक्र-चक्र-पाठीन-पीठ-भय-दोल्वण-वाडवाग्नौ।रंगत्तरंग-शिखर-स्थित-यान-पात्रास्-त्रासं विहाय भवत: स्मरणाद्-व्रजन्ति: ॥44॥
॥Verse 45उद्भूत-भीषण-जलोदर-भार-भुग्ना:,शोच्यां दशा-मुपगताश्-च्युत-जीविताशा:।त्वत्पाद-पंकज-रजो-मृत-दिग्ध-देहा:,मर्त्या भवन्ति मकर-ध्वज-तुल्यरूपा: ॥45॥
॥Verse 46आपाद-कण्ठमुरु-शृंखल-वेष्टितांगा,गाढं-बृहन्-निगड-कोटि निघृष्ट-जंघा:।त्वन्-नाम-मन्त्र-मनिशं मनुजा: स्मरन्त:,सद्य: स्वयं विगत-बन्ध-भया भवन्ति: ॥46॥
॥Verse 47मत्त-द्विपेन्द्र-मृग-राज-दवानलाहि-संग्राम-वारिधि-महोदर-बन्ध-नोत्थम्।तस्याशु नाश-मुपयाति भयं भियेव,यस्तावकं स्तव-मिमं मतिमानधीते: ॥47॥
॥Verse 48स्तोत्र-स्रजं तव जिनेन्द्र गुणैर्निबद्धाम्,भक्त्या मया विविध-वर्ण-विचित्र-पुष्पाम्।धत्ते जनो य इह कण्ठ-गता-मजस्रं,तं मानतुंग-मवशा-समुपैति लक्ष्मी: ॥48॥